|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.123. अध्यायः 123
Mahabharata - Vana Parva - Chapter Topics
लामशेन युधिष्ठिरंप्रति सुकन्योपाख्यानकथनारम्भः ॥ 1 ॥ कदाचन शर्यातनिना नृपेण सैन्यादिभिःसह च्यवनाश्रमाभिगमनम् ॥ 2 ॥ तत्र शर्यातिकन्यया सुकन्यया चिरतरतपश्चर्यानिरतस्य च्यवनस्य शरीरं पर्यावृत्य विवर्धमानमहावल्मीकावलोकनम् ॥ 3 ॥ तथा कुतूहलाद्वल्मीकोपरि दृश्यमानच्यवननयनयुगलस्याज्ञानात्कण्टकेन विभेदनम् ॥ 4 ॥ ततः क्रुद्धस्य च्यवनस्य प्रसादनाय शर्यातिना भार्यात्वाय तस्मै सुकन्यायाः प्रदानम् ॥ 5 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-123-0x(2104)(20686)
भृगोर्महर्षेः पुत्रोऽभूच्चयवनो नाम भारत।
समीपे सरसस्तस्य तपस्तेपे महाद्युतिः ॥ 3-123-1(20687)
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव।
अतिष्ठत चिरं कालमेकदेशे विशांपते ॥ 3-123-2(20688)
सवल्मीकोऽभवदृषिर्लताभिरिव संवृतः।
कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥ 3-123-3(20689)
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः।
तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥ 3-123-4(20690)
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः।
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥ 3-123-5(20691)
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः।
एकैव च सुता सुभ्रूः सुकन्या नाम भारत ॥ 3-123-6(20692)
सा सखीभिः परिवृता दिव्याभरणभूषिता।
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ 3-123-7(20693)
सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम्।
वनस्पतीन्प्रचिन्वन्ती विजहार सखीवृता ॥ 3-123-8(20694)
रूपेण वयसा चैव भदनेन मदेन च।
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥ 3-123-9(20695)
तां सखीरहितामेकामेकवस्त्रामलंकृताम्।
ददर्श भार्गवो धमांश्चरन्तीमिव विद्युतम् ॥ 3-123-10(20696)
तां पश्यमानो विजने स रेमे परमद्युतिः।
क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः।
तामाबभाषेकल्याणीं सा चास्य न शृणोति वै ॥ 3-123-11(20697)
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी।
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता।
किंनु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ 3-123-12(20698)
अक्रुद्ध्यत्स तथा विद्धे नेत्रे परममन्युमान्।
ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥ 3-123-13(20699)
ततो रुद्धे शकृन्मूत्रे सैन्यमासीत्सुदुःखितम्।
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥ 3-123-14(20700)
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः।
केनापकृतमद्येह भार्गवस्य महात्मनः।
ज्ञातं वा यदि वाऽज्ञातं तद्द्रुतं ब्रूत माचिरम् ॥ 3-123-15(20701)
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्।
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥ 3-123-16(20702)
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्।
पर्यपृच्छत्सुहृद्वर्गं पर्यजानन्न चैव ते ॥ 3-123-17(20703)
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमनुखार्दितम्।
पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत् ॥ 3-123-18(20704)
मयाऽटन्त्येह वल्मीके दृष्टं सत्वमभिज्वलत्।
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥ 3-123-19(20705)
एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात्।
तत्रापशय्त्तपोवृद्धं चन्द्रादित्यसमप्रभम् ॥ 3-123-20(20706)
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः।
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥ 3-123-21(20707)
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा।
अपमानादहं विद्धो ह्यनया दर्पपूर्णया ॥ 3-123-22(20708)
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्।
तामेव प्रतिगृह्याहं राजन्दुहितरं तव।
क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते ॥ 3-123-23(20709)
लोमश उवाच। 3-123-24x(2105)
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्।
ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ 3-123-24(20710)
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह।
प्राप्तप्रसादौ राजा वै ससैन्यः पुरमाव्रजत् ॥ 3-123-25(20711)
सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ 3-123-26(20712)
अग्नीनामतीथीनां च शुश्रूषुनसूयिका।
समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥ 3-123-27(20713)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-123-2 वीरस्तानेन वीरासनेन ॥ 3-123-11 क्षामकण्ठः क्षीणध्वनिः अतएव सा तद्वचनं न शृणोति ॥ 3-123-20 वयोवृद्धं च भार्गवम् इति झ. ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|